**ध्यानम् ।**
~~2~~माणिक्यवीणामुपलालयन्तीं
~~3~~मदालसां मञ्जुलवाग्विलासाम् ।
~~4~~माहेन्द्रनीलद्युतिकोमलाङ्गीं
~~5~~मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥
~~6~~चतुर्भुजे चन्द्रकलावतंसे
~~7~~कुचोन्नते कुङ्कुमराग शोणे ।
~~8~~पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
-हस्ते नमस्ते जगदेकमातः ॥ २ ॥
~~9~~माता मरकतश्यामा मातङ्गी मदशालिनी ।
~~10~~कुर्यात्कटाक्षं कल्याणी कदम्बवनवासिनी ॥ ३ ॥
~~11~~जय मातङ्गतनये जय नीलोत्पलद्युते ।
~~12~~जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४ ॥
**दण्डकम् ।**
~~14~~जय जननि सुधा समुद्रान्तरुद्यन् मणिद्वीप संरूढ बिल्वाटवीमध्यकल्पद्रुमाकल्प कादम्बकान्तार वासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये ।
~~15~~सादरारब्ध सङ्गीत सम्भावना सम्भ्रमालोल नीपस्रगाबद्धचूली सनाथत्रिके सानुमत्पुत्रिके ।
~~16~~शेखरीभूत शीतांशुरेखा मयूखावली बद्ध सुस्निग्ध नीलालकश्रेणिशृङ्गारिते लोकसम्भाविते ।
~~17~~कामलीला धनुःसन्निभ भ्रूलतापुष्प सन्दोह सन्देह कृल्लोचने वाक्सुधासेचने ।
~~18~~चारु गोरोचना पङ्क केली ललामाभिरामे सुरामे रमे ।
~~19~~प्रोल्लसद्वालिका मौक्तिकश्रेणिका चन्द्रिका मण्डलोद्भासि लावण्यगण्डस्थल न्यस्तकस्तूरिकापत्ररेखा समुद्भूत सौरभ्य सम्भ्रान्त भृङ्गाङ्गना गीतसान्द्रीभवन्मन्द्र तन्त्रीस्वरे सुस्वरे भास्वरे ।
~~20~~वल्लकी वादन प्रक्रिया लोल तालीदलाबद्धताटङ्क भूषाविशेषान्विते सिद्धसम्मानिते ।
~~21~~दिव्य हालामदोद्वेल हेलालसच्चक्षुरान्दोलन श्रीसमाक्षिप्त कर्णैक नीलोत्पले पूरिताशेष लोकाभिवाञ्छा फले श्रीफले ।
~~22~~स्वेद बिन्दूल्लसत्फाल लावण्य निष्यन्द सन्दोह सन्देहकृन्नासिका मौक्तिके सर्वविश्वात्मिके कालिके ।
~~23~~मुग्ध मन्दस्मितोदार वक्त्रस्फुरत्पूग ताम्बूलकर्पूर खण्डोत्करे ज्ञानमुद्राकरे सर्वसम्पत्करे पद्मभास्वत्करे ।
~~24~~कुन्दपुष्पद्युति स्निग्ध दन्तावली निर्मलालोल कल्लोल सम्मेलन स्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे ।
~~25~~सुललित नवयौवनारम्भ चन्द्रोदयोद्वेल लावण्य दुग्धार्णवाविर्भवत्कम्बुबिब्बोक भृत्कन्धरे सत्कलामन्दिरे मन्थरे ।
~~26~~दिव्यरत्नप्रभा बन्धुरच्छन्न हारादिभूषा समुद्योतमानानवद्यांशु शोभे शुभे ।
~~27~~रत्नकेयूर रश्मिच्छटा पल्लवप्रोल्लसद्दोर्लता राजिते योगिभिः पूजिते ।
~~28~~विश्वदिङ्मण्डलव्यापि माणिक्यतेजः स्फुरत्कङ्कणालङ्कृते विभ्रमालङ्कृते साधकैः सत्कृते ।
~~29~~वासरारम्भ वेला समुज्जृम्भमाणारविन्द प्रतिद्वन्द्विपाणिद्वये सन्ततोद्यद्दये अद्वये ।
~~30~~दिव्य रत्नोर्मिकादीधिति स्तोमसन्ध्यायमानाङ्गुली पल्लवोद्यन्नखेन्दु प्रभामण्डले सन्नताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले ।
~~31~~तारकाराजिनीकाश हारावलिस्मेर चारुस्तनाभोग भारानमन्मध्यवल्लीवलिच्छेद वीचीसमुल्लास सन्दर्शिताकार सौन्दर्य रत्नाकरे वल्लकीभृत्करे किङ्कर श्रीकरे ।
~~32~~हेमकुम्भोपमोत्तुङ्ग वक्षोज भारावनम्रे त्रिलोकावनम्रे ।
~~33~~लसद्वृत्त गम्भीर नाभी सरस्तीर शैवाल शङ्काकर श्याम रोमावलीभूषणे मञ्जु सम्भाषणे ।
~~34~~चारु शिञ्जत्कटी सूत्र निर्भर्त्सितानङ्ग लीला धनुः शिञ्जिनीडम्बरे दिव्यरत्नाम्बरे ।
~~35~~पद्मरागोल्लसन्मेखला भास्वर श्रोणि शोभा जित स्वर्णभूभृत्तले चन्द्रिकाशीतले ।
~~36~~विकसित नव किंशुकाताम्र दिव्यांशुकच्छन्न चारूरुशोभा पराभूतसिन्दूर शोणायमानेन्द्र मातङ्ग हस्तार्गले वैभवानर्गले श्यामले ।
~~37~~कोमल स्निग्ध नीलोपलोत्पादितानङ्ग तूणीर शङ्काकरोदार जङ्घालते चारुलीलागते ।
~~38~~नम्र दिक्पाल सीमन्तिनी कुन्तल स्निग्ध नील प्रभा पुञ्ज सञ्जात दूर्वाङ्कुराशङ्क सारङ्ग सम्योग रिङ्खन्नखेन्दूज्ज्वले प्रोज्ज्वले निर्मले ।
~~39~~प्रह्व देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश यक्षेश वाय्वग्निकोटीर माणिक्य सङ्घृष्ट बालातपोद्दाम लाक्षारसारुण्य तारुण्य लक्ष्मीगृहीताङ्घ्रि पद्मे सुपद्मे उमे ।
~~40~~सुरुचिर नवरत्न पीठस्थिते सुस्थिते ।
~~41~~रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते ।
~~42~~तत्र विघ्नेश दुर्गा वटु क्षेत्रपालैर्युते ।
~~43~~मत्तमातङ्ग कन्यासमूहान्विते मञ्जुला मेनकाद्यङ्गना मानिते भैरवैरष्टभिर्वेष्टिते ।
~~44~~देवि वामादिभिः शक्तिभिः सेविते ।
~~45~~धात्रिलक्ष्म्यादि शक्त्यष्टकैः सम्युते ।
~~46~~मातृकामण्डलैर्मण्डिते ।
~~47~~यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्चिते ।
~~48~~पञ्चबाणात्मिके ।
~~49~~पञ्चबाणेन रत्या च सम्भाविते ।
~~50~~प्रीतिभाजा वसन्तेन चानन्दिते ।
~~51~~भक्तिभाजां परं श्रेयसे कल्पसे ।
~~52~~योगिनां मानसे द्योतसे ।
~~53~~छन्दसामोजसा भ्राजसे ।
~~54~~गीतविद्या विनोदातितृष्णेन कृष्णेन सम्पूज्यसे ।
~~55~~भक्तिमच्चेतसा वेधसा स्तूयसे ।
~~56~~विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।
~~57~~श्रवणहरण दक्षिणक्वाणया वीणया किन्नरैर्गीयसे ।
~~58~~यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्च्यसे ।
~~59~~सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे ।
~~60~~सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ।
~~61~~पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात्गद्यपद्यात्मिका भारती निस्सरेत् ।
~~62~~येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः ।
~~63~~येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते ।
~~64~~किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः ।
~~65~~तस्य लीलासरो वारिधिः, तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीः स्वयम् ।
~~66~~सर्वतीर्थात्मिके, सर्वमन्त्रात्मिके, सर्वतन्त्रात्मिके, सर्वयन्त्रात्मिके, सर्वपीठात्मिके, सर्वतत्त्वात्मिके, सर्वशक्त्यात्मिके, सर्वविद्यात्मिके, सर्वयोगात्मिके, सर्वनादात्मिके, सर्वशब्दात्मिके, सर्वविश्वात्मिके, सर्वदीक्षात्मिके, सर्वसर्वात्मिके, सर्वगे, पाहि मां पाहि मां पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः ॥
~~67~~इति श्रीकालिदास कृत श्री श्यामला दण्डकम् ।
~~68~~इतर देवी स्तोत्राणि पश्यतु ।