Ganesha Pancharathnam

~~1~~मुदाकरात्तमोदकं सदा विमुक्तिसाधकं ~~2~~कलाधरावतंसकं विलासिलोकरक्षकम् । ~~3~~अनायकैकनायकं विनाशितेभदैत्यकं ~~4~~नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ ~~6~~नतेतरातिभीकरं नवोदितार्कभास्वरं ~~7~~नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । ~~8~~सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं ~~9~~महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ ~~11~~समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं ~~12~~दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । ~~13~~कृपाकरं क्षमाकरं मुदाकरं यशस्करं ~~14~~मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ ~~16~~अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं ~~17~~पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । ~~18~~प्रपञ्चनाशभीषणं धनंजयादिभूषणम् ~~19~~कपोलदानवारणं भजे पुराणवारणम् ॥४॥ ~~21~~नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं ~~22~~अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । ~~23~~हृदन्तरे निरन्तरं वसन्तमेव योगिनां ~~24~~तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥