आदित्य हृदय स्तोत्रम

~~1~~ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। ~~2~~रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।।१।। ~~3~~दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । ~~4~~उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ।।2।। ~~5~~राम राम महाबाहो शृणु गुह्यं सनातनम् । ~~6~~येन सर्वानरीन् वत्स समरे विजयिष्यसि ।।3।। ~~7~~आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् । ~~8~~जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम् ।।4।। ~~9~~सर्वमङ्गल माङ्गल्यं सर्व पाप प्रणाशनम्। ~~10~~चिन्ताशोक प्रशमनम् आयुर्वर्धन मुत्तमम् ।।5।। ~~11~~रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् । ~~12~~पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6।। ~~13~~सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । ~~14~~एष देवासुर गणान् लोकान् पाति गभस्तिभिः ।।7।। ~~15~~एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । ~~16~~महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।8।। ~~17~~पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । ~~18~~वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ।।9।। ~~19~~आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । ~~20~~सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ।।10।। ~~21~~हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् । ~~22~~तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोऽशुमान् ।।11।। ~~23~~हिरण्यगर्भः शिशिरः तपनो भास्करो रविः । ~~24~~अग्निगर्भोदितेः पुत्रः शङ्खः शिशिरनाशनः ।।12।। ~~25~~व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः । ~~26~~धनावृष्टि-रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ।।13।। ~~27~~आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । ~~28~~कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।।14।। ~~29~~नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः । ~~30~~तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ।।15।। ~~31~~नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ~~32~~ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।16।। ~~33~~जयाय जयभद्राय हर्यश्वाय नमो नमः । ~~34~~नमो नमः सहस्रांशो आदित्याय नमो नमः ।।17।। ~~35~~नम उग्राय वीराय सारङ्गाय नमो नमः । ~~36~~नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ।।18।। ~~37~~ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे । ~~38~~भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।19।। ~~39~~तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने । ~~40~~कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।। 20।। ~~41~~तप्त चामीकराभाय वह्नये विश्वकर्मणे । ~~42~~नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ।। 21।। ~~43~~नाशयत्येष वै भूतं तदेव सृजति प्रभुः । ~~44~~पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।। 22।। ~~45~~एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । ~~46~~एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ।। 23।। ~~47~~वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । ~~48~~यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ।।24।। ~~49~~फलश्रुति ~~50~~एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । ~~51~~कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ।।25।। ~~52~~पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् । ~~53~~एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ।।26।। ~~54~~अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । ~~55~~एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ।।27।। ~~56~~एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा । ~~57~~धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।28।। ~~58~~आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । ~~59~~त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।।29।। ~~60~~रावणंप्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । ~~61~~सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ।।30।। ~~62~~अथ रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । ~~63~~निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति।।३१।।